वै वाव इत्येताभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये। अहर्वै देवानामासीद् रात्रिरसुराणाम्। बृहस्पतिर्वै देवानां पुरोहित आसीच्छण्डामर्कावसुराणाम्। वाव अथं वाव हस्त आसीत्, नेतर आसीत्।
"आसीत्()" इति। "अस भुवि" (धा।पा।१०६५),
लङ्? अदादित्वाच्छयो लुक्(), "अस्तिसिचोऽपृक्ते"
७।३।९६ इति आट्(), स चोदात्त इत्याद्युदात्तमेतत्()। इतिकरणस्य पूर्वोक्तमेव प्रयोजनम्()। चकारोऽनुक्तसमुच्चयार्थः। या द्विः पचत्विह तस्याः संवत्सरस्य सस्यं पच्यते द्विरित्यनेन युक्ता प्रथमा तिङ्()विभक्तिः पचत्विति वा न निहन्यते॥